साम्यवादखण्डनम् – प्रथमो भागः

साम्यवादखण्डनम् – प्रथमोभागः  बकव्रतदर्शिनीटीकासहितम्

–   श्रीमातृप्रणयिनी

 

प्रणम्य त्रिपुराम्बिकां वाग्देवीमिन्दिरां तथा |
संक्षेपेण विरच्यते साम्यदर्शनखण्डनम् || 1 ||

प्रणम्य इति – स्त्रीदेवता नमस्कारेण सुसूचयिषति |  यद्यपि साम्यवादानुयायिनः स्त्रीणामधिकारविषये बहुधा रटन्ति तथापि तेषां मते मार्क्स-एन्गेल्स-लेनिन् इत्यादयः पुरुषा एव पूज्याः | धर्ममार्गिणः श्रीललितामहात्रिपुरसुन्दरीं पूजयन्ति | | तेषां मते स्त्रीणां उन्नतस्थानं वेदकालादारभ्य आसीदेव | साम्यदर्शनम् – हेतुवादः समतावादः इति केचित् | भारते मार्गोऽयं वाममार्गः इत्यभिधीयते | नाममात्रेण साम्यम् न तत्त्वतः |

अहेतुश्छलवादाश्च  येन पापठ्यते सदा |
तस्य निराचिकिर्षाद्धि   ग्रन्थस्यास्य प्रयोजनम् || 2 ||

ग्रन्थस्यास्य प्रयोजनम्  –

“सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् |
यावत् प्रयोजनं नोक्तं तावत् केन गृह्यते
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ||”

इति भट्टपादैः शिष्टैः सर्वैरुक्तत्वात् प्रथमं प्रयोजनमाह |

वादोऽयमतिदुर्नीतो देशसमूहनाशकात्  |
यत्रायं वर्धते  तत्र धर्मनाशस्तु निश्चयम् || 3 ||

अतिदुर्नीतः इति – किमर्थमितिचेत् –  देशसमूहनाशको भूत्वा इति | किं प्रमाणमुद्घोषणस्यास्य ? यत्र यत्र साम्यवादः वर्धते देशेषु राज्येषु वा तत्र धर्मविनाशो भवति | तद्यथा  – तिबेत् चीन केरल वङ्ग देशराज्येषु | न धर्मविनाशः एवात्र  भवति क्रूरताप्यभिवर्धते | वाक्स्वातन्त्र्यं कार्यस्वातन्त्र्यञ्च जनास्त्यजन्ति  | प्रतिवादिनः सिद्धान्तं दूषयन्ति |

अलं धर्मोपदेशेण तावदास्तां वृथाकथा   |
न्यूनाधिकविभागाच्च कथं धर्मं समाचरेत्  || 4 ||

यद् सर्वं भवता उक्तं तन्नसत्यम् | ननु असमविभागात्  न्यूनाधिकविभागकारको भवतो धर्मः | कथमसमत्वाचारमिदं समाचरेत् इति चेत् , असमकर्मविभाग-तारतम्ययोः न कदापि कार्यकारण भावः |

स्वर्गादि फलसाम्यत्वात् दम्पत्योर्यज्ञकर्मसु  |
गुणकर्मविभागेन तारतम्यं न सिद्ध्यति || 5 ||

प्रथमं वैदिकविषयस्योदाहरणं प्रदर्शयति | किमर्थं नास्तिकाय वैदिकप्रसङ्कः इति चेत् मैवम् | तथाहि लौकिकव्यवहारे प्रकृतावपि सर्वत्र तारतम्यमस्त्येव | प्रतिपक्षेप्ययं दोषो वर्तत एव इति परिहारयति |

सर्वत्र व्यवहारे च तारतम्यस्यदर्शनात् |
प्रधानगौणसम्बन्धः भवद्दलेपि दृश्यते || 6 ||

भवद्दलेष्वपि एकः प्रधानो  मार्गदर्शकः अन्ये  तस्यानुयायिनः | देशे राज्ये दले वा नेता प्रधानो भवति अन्ये जनाः गौणाः| अयं प्रधानगौणसम्बन्धः तारतम्यभावस्तत्रापि दृश्यते | अपि च भवद्वचने  कापट्यं दरीदृश्यते | उदाहरणार्थम् आह |

देशभक्तिर्गुरोर्भक्तिः भवतानिन्द्यते सदा |
लेनिन्मूर्तिस्तु संपूज्य कापट्यं हि प्रदर्श्यते || 7 ||

यथा द्राविडहेतुवादिनः देवताराधनं दूषयित्वा तेषां नेतॄन् – रामस्वामिनायकादीन् द्विजिह्वायिव आराधयन्ति तथा हि इमे जनाः अन्येषामाचार्यभक्तिं  देशभक्तिञ्च मुहुर्मुहुर्दूषयन्ति |  पुनः स्वमतगुरुन् पूजयन्ति |

देवताराधनं त्यक्त्वा द्राविडन्यायवादिनः |
रामस्वाम्याख्यवृद्धस्य  पादयोः प्रपतन्ति ते || 8 ||

 अहो बत तेषां कापट्यं कथं वा कथयामि? | पुनरुदाहरणं ददाति द्विजिह्वत्वस्य |

अम्बां पयस्विनीं चैव सर्वदा भाति भारते |
मातरं माम्सरूपेण यो भुङ्क्ते दुष्ट  एव सः || 9 ||

नेयं गोमाता केवलं माम्स एव  इति विप्रवदति |

नेयं भवति मे माता नेदं विबुधालयम् |
केवलं भोक्तृभिः सम्यक् स्वादितामृतमेव च || 10 ||

तथासथि  भवत्पक्षे परस्परविरोधभावो विद्यते |

गोमांसपोषको भूत्वा रारटीति विचारकः  |
शुनकाश्वान्न भोक्तव्याः इत्येतेषां  मनोगतम् || 11 ||

 

 

Spring

tree

शीतलं भाययन् लोके वृक्षान् श्वासेन जीवयन् |
निम्रेडयन्खगान्सर्वान् क्रीडेच्च शिशिरात्ययः ||
वृक्षमुक्तानि पुष्पाण्यवकीर्णानि महीतले |
वसन्तो गगने याति लङ्कागतकपीन्द्रवत् ||

श्रीपरमशिवेन्द्राष्टकम्

श्री काञ्चीकामकोटि पीठस्य सप्तपञ्चाशत्तम आचार्याः श्री परमशिवेन्द्र सरस्वती स्वामिनः | तान् उद्दिश्य अष्टक्मिदं मया विरचितम् |

यः शिष्यदहराकाशे भासते स्वात्मविद्यया |
तस्मै निश्चलदीपाय निःसङ्गयतये नमः || 1 ||

யார் சிஷ்யரின் ஹ்ருதயாகாசத்தில் ஆத்ம வித்யையாக பிரகாசிக்கிறாரோ (தஹரவித்யாபிரகாசிகையாக) அந்த அசைவற்ற தீபமாகிய பற்றற்ற யதிக்கு நமஸ்காரம்.

स्वात्मबोधेनखड्गेन किकिराकृतखेदाय |
नारायणेन्द्रशिष्याय नमस्तस्मै सुबोधाय || 2 ||

ஆத்மபோதம் என்ற வாளால் துக்கத்தை துண்டுதுண்டாக்குகிறாரோ அந்த நாராயணேந்திரரின் சிஷ்யருக்கு நல்லபோதனைகளை செய்பவருக்கு நமஸ்காரம்.

श्वेतारण्यनिवासाय स्वेतरभेदनाशिने |
श्रीब्रह्मेन्द्रशिरस्थाय तस्मै श्रीगुरवे नमः || 3 ||

திருவெண்காட்டில் உறைபவருக்கு நான் மற்றவர் என்ற பேதத்தை அழிப்பவருக்கு, பிரம்மேந்திரரின் சிரத்தில் இருப்பவருக்கு அந்த உயரிய குருவுக்கு நமஸ்காரம்

तात्पर्यं शिवगीतायाः येन सुष्टुः प्रकीर्थितम् |
नामरत्नानुसन्धात्रे तस्मै मनीषिणे नमः || 4 ||

யாரால் சிவகீதையின் தாத்பர்யம் நன்றாக சொல்லப்பட்டதோ (பிரம்மத்தின்) நாம ரத்னங்களை புகட்டியவருக்கு அந்த ஞானிக்கு நமஸ்காரம்.

वेदान्तसार सिद्धाय विवेकाब्धिनिमग्नाय
उन्मत्तस्तिथिवेद्याय नमोस्तूत्तम तीर्थाय || 5 ||

வேதாந்த சாரத்தை நிரூபித்தவரும் விவேகக் கடலில் மூழ்கியவரும் (சிஷ்யரின்) உன்மத்த நிலையை அறிந்தவருமான உத்தம சந்நியாசிக்கு நமஸ்காரம்.

अरूपस्य शिवस्यापि येनोपासित मार्गेण |
लभ्यते शिवसालेकं तत्त्वविदे नमस्तस्मै || 6 ||

எவரால் உபாசிக்கப்பட்ட மார்க்கத்தில் உண்மையில் அரூபமற்ற சிவனுடைய சிவசாலோகம் கிடைக்கிறதோ அந்த தத்துவ ஞானிக்கு நமஸ்காரம்

यस्याज्ञयासपर्यापि शब्दरूपेण सम्पन्ना |
स्मरणात्यस्य सद्भक्तिः जायते हृदि भक्तस्य || 7 |

யாருடைய உத்தரவால் சொல்வடிவிலே பூஜை செய்யப்பட்டதோ (श्री सदाशिवब्रह्मेन्द्रकृतः सपर्यापर्यायस्तवः ), யாருடைய ஸ்மரணையால் பக்தரின் ஹ்ருதயத்தில் ஸத்பக்தி தோன்றுகிறதோ

भवस्य पञ्चकृत्येष्वनुग्रहश्चनराकृतौ |
यस्मिन्नात्मनि वर्तते तस्मै तेजस्विने नमः || 8 ||

சிவனுடைய பஞ்சக்ருத்யங்களில் அனுக்ரஹம் மனித உருவில் எந்த ஆத்மாவில் உறைகிறதோ அந்த தேஜஸ்விக்கு நமஸ்காரம்.

उणादि सूत्राणि

पठिताः केचन विषयाः अत्र   लिख्यन्ते |
कृपावाजिमिस्वादिस्वाध्यशूभ्य उण् | 1.1.
डु कृञ् करणे – करोतीति कारुः – शिल्पी जातिविशेषः
पा पाने – पातीति पायुः – गुदम्
वा गतिगन्धनयोः – वातीति वायुः – मरुत्
जि जये / जि अभिभावे – जयत्यभिभवति रोगान् जायुः – औषधम्
दु मिञ् प्रक्षेपणे – मिनोति प्रक्षिपति ऊष्माणं देहे इति मायुः (पित्तः)
स्वद् आस्वादने – स्वदत्ते इति स्वादुः – मृष्टतागुणसंयुक्तः
राध साध संसिद्धौ – साध्नोति परकार्यमिति / साधयतीति साधुः – योग्यः
आशु व्याप्तौ (स्वादि) – अश्नुते इति आशु – आदित्यः, शीघ्र
एतेभ्यः उण्प्रत्ययो भवति |
दॄसनिजनिचरिचटिरहिभ्यो ञुण्  1.3
दॄ विदारणे –  दीर्यते इति दारुः  – काष्ठम्
सन् – सन्यते भज्यत इति  सानुः – प्रस्थः
जन  जनने / जनी प्रादुर्भावे – जायत इति जानु
चर् चारु – चरति गच्छति प्रविशति मन इति – शोभनम्
चट स्फुट भेदने – चटतीति चाटुः  – प्रियवाक्यम्
रहि पृथाग्भावे – रह्यते रहयतीति वा राहुः – ग्रहविशेषः